|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.274. अध्यायः 274
Mahabharata - Vana Parva - Chapter Topics
युधिष्ठिरेण मार्कण्डेयंप्रति स्वसमानदुःखिसत्ताप्रश्नः ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
जनमेजय उवाच। 3-274-0x(2684)(26451)
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्।
अत ऊर्द्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥ 3-274-1(26452)
वैशम्पायन उवाच। 3-274-2x(2685)
एवं कृष्णां मोक्षयित्वाविनिर्जित्य जयद्रथम्।
आसांचक्रे मुनिगणैर्धर्मराजो युधिष्ठिरः ॥ 3-274-2(26453)
तेषां मध्येमहर्षीणां शृण्वतामनुशोचताम्।
मार्कण्डेयमिदं वाक्यमब्रवीत्पाण्डुनन्दनः ॥ 3-274-3(26454)
भगवन्देवर्षीणां त्वं ख्यातो भूतभविष्यवित्।
संशयं परिपृच्छमि च्छिन्धि मे हृदि संस्थितम् ॥ 3-274-4(26455)
द्रुपदस्य सुता ह्येषा वेदिमध्यात्समुत्थिता।
अयोनिजा महाभागास्नुषा पाण्डोर्महात्मनः ॥ 3-274-5(26456)
मन्ये कालश्च भगवान्दैवं च दुरतिक्रमम्।
भवितव्यं च भूतानां यस् नास्ति व्यतिक्रमः ॥ 3-274-6(26457)
कथं हि पत्नीमस्माकं धर्मज्ञां धर्मचारिणीम्।
संस्पृशेदीदृशो भावः शुचिं स्तैन्यमिवानृतम् ॥ 3-274-7(26458)
न हि पापं कृतंकिंचित्कर्म वा निन्दितं क्वचित्।
द्रौपद्या ब्राह्मणेष्वेव धर्मः सुचरितो महान् ॥ 3-274-8(26459)
तां जहार बलाद्राजा मूढबुद्धिर्जयद्रथः।
तस्याः संहरणात्पापः शिरसः केशवापनम् ॥ 3-274-9(26460)
पराजयं च संग्रामे ससहाः समाप्तवान्।
प्रत्याहृता तथाऽस्माभिर्हत्वा तत्सैन्धवं बलम् ॥ 3-274-10(26461)
तद्दारहरणं प्राप्तमस्माभिरवितर्कितम्।
दुःखश्चायं वने वासो मृगयायां च जीविका ॥ 3-274-11(26462)
हिंसा च मृगजातीनां वनौकोभिर्वनौकसाम्।
ज्ञातिभिर्विप्रवासश्च मिथ्याव्यवसितैरियम् ॥ 3-274-12(26463)
अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः।
भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा क्वचित् ॥ 3-274-13(26464)
इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि चतुःसप्तत्यधिकद्विशततमोऽध्यायः ॥ 274 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-274-6 दैवं च विधिनिर्मितमिति झ. ध. पाठः। तत्रदैवं धर्माधर्मौ विधिः सदसत्कर्मणी ताभ्यां निर्मितम् ॥ 3-274-7 ईदृशो भावः परेण हरणम् ॥ 3-274-12 मिथ्याव्यवसितैः वृथातापसवेषधरैः। इयं हिंसा क्रियत इति शेषः ॥ 3-274-13 मया सम इतिशेषः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|